NAMASTESTU MAHAMAYE | Mahalakshmi Ashtakam | 🌺 Manifestation for Wealth & Divine Grace of Lakshmi

Опубликовано: 30 Июнь 2026
на канале: Meditative Mantrah
1,549,707
17k

@meditativemantras99
Meditative Mantras 🕉️ 💖
🎧 Use Head Phones for immersive experience.

🌺 What is Namastestu Mahamaye – Mahalakshmi Ashtakam?
Mahalakshmi Ashtakam is a powerful 8-verse Sanskrit hymn dedicated to Goddess Mahalakshmi, the divine embodiment of wealth, prosperity, fortune, wisdom, and spiritual abundance.
It begins with the famous line:
“Namastestu Mahamaye…”
(Salutations to the Great Divine Mother)

नमस्तेस्तु महामाये, श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते ,महालक्ष्मि नमोऽस्तु ते ॥ १ ॥

नमस्ते गरुडारूढे ,कोलासुरभयङ्करि ।
सर्वपापहरे देवि, महालक्ष्मि नमोऽस्तु ते ॥ २ ॥

सर्वज्ञे सर्ववरदे ,सर्वदुष्टभयङ्करि ।
सर्वदुःखहरे देवि ,महालक्ष्मि नमोऽस्तु ते ॥ ३ ॥

सिद्धिबुद्धिप्रदे देवि , भुक्तिमुक्तिप्रदायिनि ।
मन्त्रमूर्ते सदा देवि ,महालक्ष्मि नमोऽस्तु ते ॥ ४ ॥

आद्यन्तरहिते देवि, आद्यशक्ति महेश्वरि ।
योगजे योगसम्भूते, महालक्ष्मि नमोऽस्तु ते ॥ ५ ॥

[chorus]
महालक्ष्मि नमोऽस्तु ते।
करुणामयि नमोऽस्तु ते॥
धनवैभवसुखशान्तिं देहि,
महालक्ष्मि नमोऽस्तु ते॥

स्थूलसूक्ष्ममहारौद्रे, महाशक्ति महोदरे ।
महापापहरे देवि, महालक्ष्मि नमोऽस्तु ते ॥ ६ ॥

पद्मासनस्थिते देवि, परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातः महालक्ष्मि नमोऽस्तु ते ॥ ७ ॥

श्वेताम्बरधरे देवि ,नानालङ्कारभूषिते ।
जगत्स्थिते जगन्मातः महालक्ष्मि नमोऽस्तु ते ॥ ८ ॥

महालक्ष्म्यष्टकं स्तोत्रम् यः पठेद्भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥

एककाले पठेन्नित्यं महापापविनाशनम् ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १० ॥

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥ ११ ॥