Shodash Granth | षोडश ग्रंथ | Navaratnam | नवरत्नम् | Pushtimarg

Опубликовано: 15 Май 2026
на канале: NakshatraPedia
374,791
1.7k

Join us on a journey of understanding as we explore Shodash Granth's Navaratnam Stotra, a collection of beautiful verses that hold profound meanings.

Lyrics:

चिन्ताकापि न कार्या निवेदितात्मभिः कदापीति।
भगवानपि पुष्टिस्थो न करिष्यति लौकिकीं च गतिम् ॥१॥

निवेदनन्तु स्मर्त्तव्यं सर्वथा तादृशैर्जनैः।
सर्वेश्वरश्च सर्वात्मा निजेच्छातः करिष्यति ॥२॥

सर्वेषां प्रभुसम्बन्धो न प्रत्येकमिति स्थितिः ।
अतोऽन्यविनियोगेऽपि चिन्ता का स्वस्य सोऽपि चेत् ॥३॥

अज्ञानादथवा ज्ञानात् कृतमात्मनिवेदनम् ।
यैः कृष्णसात्कृतप्राणैस्तेषां का परिदेवना ॥४॥

तथा निवेदने चिन्ता त्याज्या श्रीपुरुषोत्तमे ।
विनियोगेऽपि सा त्याज्या समर्थो हि हरिः स्वतः ॥५॥

लोके स्वास्थ्यं तथा वेदे हरिस्तु न करिष्यति ।
पुष्टिमार्गस्थितो यस्मात् साक्षिणो भवताऽखिलाः ॥६॥

सेवाकृतिर्गुरोराज्ञा बाधनं वा हरीच्छया ।
अतः सेवापरं चित्तं विधाय स्थीयतां सुखम् ॥७॥

चित्तोद्वेगं विधायापि हरिर्यद्यत् करिष्यति ।
तथैव तस्य लीलेति मत्वा चिन्तां द्रुतं त्यजेत् ॥८॥

तस्मात्सर्वात्मना नित्यं 'श्रीकृष्णः शरणं मम' ।
वदद्भिरेवं सततं स्थेयमित्येव मे मति: ॥९॥

॥इति श्रीमद्वल्लभाचार्य विरचितो नवरत्नग्रन्थ सम्पूर्णम्॥

#ShodashGranth #navratnamstotra #DivineVerses #DevotionAndWisdom #nakshatrapedia